हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Dattatreya Hrudayam 2 – श्री दत्तात्रेय हृदयम्


अस्य श्रीदत्तात्रेय हृदयराज महामन्त्रस्य कालाकर्षण ऋषिः जगतीच्छन्दः श्रीदत्तात्रेयो देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

द्रामित्यादि षडङ्गन्यासः ॥

नमो नमः श्रीमुनिवन्दिताय
नमो नमः श्रीगुरुरूपकाय ।
नमो नमः श्रीभवहरणाय
नमो नमः श्रीमनुतल्पकाय ॥ १ ॥

विश्वेश्वरो नीलकण्ठो महादेवो महेश्वरः
हरिः कृष्णो वासुदेवो माधवो मधुसूदनः ।
जनकश्च शतानन्दो वेदवेद्यो पितामहः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ २ ॥

पञ्चाननो महादेवो गौरीमानसभास्करः
ब्रह्मवादो सुखासीनो सुरलोकवरप्रदः ।
वेदाननो वेदरूपो मुक्तिमार्गप्रकाशकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ३ ॥

कर्पूरगौरवर्णाङ्गो शैलजामनोरञ्जकः
श्यामाभः श्रीनिवासो यो भक्तवाञ्छितदायकः ।
पीतरत्नाङ्गवर्णाङ्गो गायत्र्यात्मप्रलापकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ४ ॥

त्रिपञ्चनयनो रुद्रो यो महाभैरवान्तकः
द्विदलाक्षो महाकायो केशवो माधवो हरिः ।
अष्टाक्षो वेदसारङ्गो श्रीसुतो यज्ञकारणः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ५ ॥

दिग्बाहुमण्डितदेवो मृडानीप्राणवल्लभः
सुमूर्तिकृत्कार्तिकेयो हृषीकेशः सुरेश्वरः ।
वसुः पाणिस्तपः शान्तो ब्रह्मण्यो मखभूषणः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ६ ॥

गङ्गाधरो महेशानो श्रीपतिर्भवभञ्जकः
वाग्देवः कामशान्तो यो सावित्री वाग्विलासकः ।
ब्रह्मरूपो विष्णुशक्तिर्विश्वेशो त्रिपुरान्तकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ७ ॥

नागप्रियो भूतनाथो जगत्संहारकारकः
भुवनेशो भयत्राता माधवो भूतपालकः ।
विधाता रजरूपश्च ब्राह्मणोऽजकारकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ८ ॥

कृद्धकॄरपिशाचेशो शाम्भवो शुद्धमानसः
शान्तो दान्तो महाधीरो गोविन्दस्तत्त्वसागरः ।
अर्धूसर्धूमहाभागो रजोरूपो महर्षिकः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ९ ॥

चर्माम्बरधरो देवो लीलाताण्डवकौशलः
पीताम्बरपरीधानो मायाचक्रान्तरात्मवित् ।
कर्माङ्गवस्त्रभूषो यो जगत्कारणकार्यधृत्
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १० ॥

कपालमालांशुधरो भस्मभूषो शुभप्रदः
श्रीवत्सः प्रीतिकरो योगवान्यो पुरुषोत्तमः ।
यज्ञसूत्रोत्तरीभूषो वेदमार्गप्रभाकरः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ ११ ॥

त्रिशूलपाणिः सर्वज्ञो ज्ञानेन्द्रियप्रियङ्करः
गदापाणिश्चार्वङ्गो विश्वत्राता जगत्पतिः ।
कमण्डलुधरो देवो विधाता विघ्ननाशनः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १२ ॥

शिलानसूनुवरदश्चण्डांशुश्चण्डविक्रमः
अरुणो विरजो धाता भक्तिमानसबोधकः ।
पद्मासनो पद्मवेत्ता हंसमानसपञ्जरः
त्रिमूर्तिरूपो भगवान् दत्तात्रेयो गुरुं नमः ॥ १३ ॥

इत्येवं दत्तहृदयं एकभक्त्या पठेन्नरः ।
भुक्तिमुक्तिप्रदं लोके दत्तसायुज्यमाप्नुयात् ॥ १४ ॥

धनकामे पुत्रकामे नानाकामे अहेतुके ।
पठनात्साधकेभ्यश्च सर्वकामफलप्रदम् ॥ १५ ॥

मन्त्रमात्रं समुच्चार्य दशदोषनिवारकं
सिद्धमन्त्रो भवत्येवं नात्र कार्या विचारणा ॥ १६ ॥

इदं हृदयमाहात्म्यं त्रिषु लोकेषु दुर्लभम् ।
साक्षात्कारप्रदं स्तोत्रं सत्यं सत्यं वदाम्यहम् ॥ १७ ॥

चतुर्विंशतिकान् श्लोकान् जप्त्वा द्वादशसङ्ख्यया ।
तस्य द्वादशभागेन जप्त्वा चैकपुरश्चरम् ॥ १८ ॥

सूर्यसङ्ख्यपुरश्चर्यात् कृतो वै साधकोत्तमः ।
तस्य पाठप्रभावेन दत्तदर्शनमाप्नुयात् ॥ १९ ॥

प्रत्येकं श्लोकश्लोके कृत्वा पाठं विचक्षणः ।
तेन सान्निध्यता शीघ्रं दत्तात्रेयस्य जायते ॥ २० ॥

इति श्री दत्तात्रेय हृदयम् ॥


Guru Stotras – श्री गुरु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.